श्रीगणेशस्तोत्र

        श्रीगणेशस्तोत्र 

श्रीगणेशाय नमः नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये || ||

प्रथमं वक्रतुण्डं एकदन्तं द्वितीयकम् |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् || ||

लम्बोदरं पञ्चमं षष्ठं विकटमेव |
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् || ||

नवमं भालचन्द्रं दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् || ||

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः || ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् || ||

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् |
संवत्सरेण सिद्धिं लभते नात्र संशयः || ||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || ||

इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् |

0 comments: